लक्ष्मी नारायण स्तोत्रम् | Lakshmi Narayan Stotra | Lakshmi Narayan Stotra With Lyrics
Описание
लक्ष्मी नारायण स्तोत्रम् | Lakshmi Narayan Stotra | Lakshmi Narayan Stotra With Lyrics #narayan #lakshmi #laxmi #lakshminarayan ध्यानम् चक्रं विद्या वर घट गदा दर्पणम् पद्मयुग्मं दोर्भिर्बिभ्रत्सुरुचिरतनुं मेघविद्युन्निभाभम् । गाढोत्कण्ठं विवशमनिशं पुण्डरीकाक्षलक्ष्म्योः एकीभूतं वपुरवतु वः पीतकौशेयकान्तम् ॥ शंखचक्रगदापद्मकुंभाऽऽदर्शाब्जपुस्तकम्। बिभ्रतं मेघचपलवर्णं लक्ष्मीहरिं भजे ॥ विद्युत्प्रभाश्लिष्टघनोपमानौ शुद्धाशयेबिंबितसुप्रकाशौ। चित्ते चिदाभौ कलयामि लक्ष्मी- नारायणौ सत्त्वगुणप्रधानौ ॥ लोकोद्भवस्थेमलयेश्वराभ्यां शोकोरुदीनस्थितिनाशकाभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥१॥ सम्पत्सुखानन्दविधायकाभ्यां भक्तावनाऽनारतदीक्षिताभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥२॥ दृष्ट्वोपकारे गुरुतां च पञ्च- विंशावतारान् सरसं दधत्भ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥३॥ क्षीरांबुराश्यादिविराट्भवाभ्यां नारं सदा पालयितुं पराभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥४॥ दारिद्र्यदुःखस्थितिदारकाभ्यां दययैवदूरीकृतदुर्गतिभ्याम् । नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥५॥ भक्तव्रजाघौघविदारकाभ्यां स्वीयाशयोद्धूतरजस्तमोभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥६॥ रक्तोत्पलाभ्राभवपुर्धराभ्यां पद्मारिशंखाब्जगदाधराभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥७॥ अङ्घ्रिद्वयाभ्यर्चककल्पकाभ्यां मोक्षप्रदप्राक्तनदंपतीभ्याम्। नित्यं युवाभ्यां नतिरस्तु लक्ष्मी- नारायणाभ्यां जगतः पितृभ्याम् ॥८॥ इदं तु यः पठेत् स्तोत्रं लक्ष्मीनारयणाष्टकम्। ऐहिकामुष्मिकसुखं भुक्त्वा स लभतेऽमृतम् ॥ ।। इति श्रीकृष्णकृतं लक्ष्मीनारयण स्तोत्रं संपूर्णम् ।।
Комментарии